प्रकरण ३३ – अंकपाश किंवा गणितपाश
स्थानांतमेकादिचयांकघातः ।
संख्याधिभेदा नियतिस्युरंकैः ॥
भक्तोऽङकमित्यांकसमासनिघ्नः ।
स्थानेषु युक्तो मितिसंयुतिः स्यात् ॥२५०॥
द्विकाष्टकाभ्यां त्रिनवाष्टकैर्वा ।
निरंतरं द्व्यादिनवावसानैः ॥
संख्याविभेदाः कति संबवन्ति ।
तत्संख्यकैक्यानि पृथक्वदाशु ॥२५१॥
पाशांकुशाहिडमरूकपालशूलैः ।
खट्वांग शक्तिशरचापयुतैर्भवन्ति ॥
अन्योन्यहस्तकलिअतैः कति मूर्तिभेदाः ।
शंभोर्हरेरिव गदारिसरोजशंखैः ॥२५२॥
यावत्स्थानेषु तुल्याङ्कास्तद्भेदैस्तु पृथक् कृतैः ।
प्राग्भेदा विहृता भेदास्तत्संख्यैक्यं च पूर्ववत् ॥२५३॥
द्विद्वयेकभूपरिमितैः कति संख्यकाः स्युः ।
तासांयुतिं च गणकाऽऽशु मम प्रचक्ष्व॥
अंभोधिकुंभिशरभूतशरैस्तथाङ्कैः ।
चेअदंकपाशमितियुक्तिविशारदोऽसि ॥२५४॥
स्थानषट्कस्थितैरङ्कैरस्न्योन्यं खेन वर्जितैः ।
कति संख्याविभेदाः स्युर्यदि वेस्ति निगद्यताम् ॥२५५॥
निरेकमंकैक्यमिदं निरेकस्थानांतमेकापचितं विभक्तम् ।
रूपादिभिस्तन्निहतेः समा स्युः ।
संख्याविभेदा नियतेऽङ्कयोगे ॥२५६॥
नवान्वितस्थानकसंख्यकायाः ।
ऊनेऽङ्कयोगे कथिते तु वेद्यम् ॥
संक्षिप्तमुक्तं पृथुताभयेन ।
नान्तोस्ति यस्माद्गणितार्णवस्य ॥२५७॥
पंचस्थानस्थितैरेकैर्यद्यद्योगस्त्रयोदह ।
कति-भेदा भवेत्संख्या यदिवेत्सि निगद्यताम् ॥२५८॥
न गुणो न हरो न कृतिर्न घनः पृष्टस्तथापि दुष्टानाम् ।
गर्वितगणकबटूनां स्यात्पातोऽवश्यमंकपाशेऽस्मिन् ॥२५९॥
येषां सुजातिगुणवर्गविभूषितांगी ।
शुद्धखिल-व्यवहृतिः खलु कंठसक्ताः ॥
लीलावतीह सरसोक्तिमुदाहरन्ती।
तेषां सदैव सुखसंपदुपैति वृद्धिम् ॥२६०॥
अष्टौ व्याकरणानि षट्च भिषजौ व्याचष्ट ताः संहिताः ।
षट् तर्कान् गणितानि पंच चतुरो वेदानधीते स्म यः ॥
रत्नानां त्रितयं द्वयं च बुबुधे मीमांसयोरन्तरे ।
सद्ब्रह्मैकमगाधबोधमहिमा सोऽस्याः कविर्भास्करः ॥२६१॥