प्रकरण ३२ – कुट्टक व्यवहार
शतं हतं येन युतं नवत्या ।
विवर्जितं वा व्हिहृतं त्रिषष्ट्या ॥
निरग्रकं स्यात् वद मे गुणं तं ।
स्पष्टं पटीयान् यदि कुट्टकेऽसि ॥२३४॥
भाजो हारः क्षेपकश्चापवर्त्यः ।
केनाप्यादौ संभवे कुट्टकार्यम् ॥
येन च्छिन्नो भाज्यहारौ न तेन ।
क्षेपश्चैतद्दुष्टमुद्दिष्टमेव ॥२३५॥
परस्परं भाजितयोर्ययोरयः ।
शेषस्तयोः स्यादपवर्तनं सः ॥
तेनापवर्तेन विभाजिऔ यौ ।
तौ भाज्यहारौ दृढसंज्ञकौ स्तः ॥२३६॥
मिथो भजेत्तौ दृढभाज्यहारौ ।
यावत् विभाज्ये भवतीह रूपं ॥
फलान्यधोधस्तदधो निवेश्य ।
क्षेपस्ततः शून्यमुपांतिमेन ॥२३७॥
स्वोर्ध्वे हतेऽन्त्येन युते तदन्त्यम् ।
त्यजेन्मुहुः स्यादिति राशियुग्मम् ॥
ऊर्ध्वो विभाज्येन दृढेन तष्टः ।
फलं गुणो स्यादधरो हरेण ॥२३८॥
एवं तदैवात्र यदा समास्ताः ।
स्युर्लब्धयश्चेद्विषमास्तदानीम् ॥
यदागतौ लब्धिगुणौ विशोध्यौ ।
स्वतक्षणाच्छेषमितौ तु तौ स्तः ॥२३९॥
यद्रुणा क्षयगषष्टिरन्विता ।
वर्जिता च यदि वा त्रिभिस्ततः ।
स्यात्रयोदशहृता निरग्रका ।
तं गुणं गणक मे पृथग्वद ॥२४०॥
एकविंशतियुतं शतद्वयम् ।
यद्गुणं गणक पंचषष्टियुक् ।
पंचवर्जितशतद्वयोध्दृतम् ।
शुद्धिमेति गुणकं वदाशु तत् ॥२४१॥
भवतिकुट्टकविधेर्युतिभाज्ययोः ।
समपवर्तितयोरथवा गुणः ॥
भवति यो युतिभाजकयोः पुनः ।
स च भवेदपवर्तन-संगुणः ॥२४२॥
क्षेपजे तक्षणाच्छुद्धे गुणाप्ती स्तो वियोगजे ॥२४३॥
यद्गुणा गणक षष्टिरन्विता ।
वर्जिता च दशभिः षडुत्तरैः ॥
स्यात् त्रयोदशहृता निरग्रका ।
तद्गुणं कथय मे पृथक् पृथक् ॥२४४॥
येन संगुणिताः पंच त्रयोविंशतिसंयुताः ।
वर्जिता वा त्रिभिर्भक्ता निरग्राः स्युः स को गुणः ॥२४५॥
क्शेपाभावे तथा तत्र क्षेपः शुद्धयेत् हरोध्दृतः ।
ज्ञेयः शून्यं गुणस्तत्र क्षेपो हारयुतः फलम् ॥२४६॥
येन पंच गुणिताः खसंयुताः ।
पंचषष्टिसहिताश्च तेऽथवा ॥
स्युस्त्रयोदशहृता निरग्रकाः ।
तं गुणं गणक कीर्तयाशु मे ॥२४७॥
क्षेपं विशुद्धि परिकल्प्य रूपं\
पृथक् पृथ्ग्ये गुणकारलब्धी ॥
अभिस्पित-क्षेपविशुद्धनिघ्ने।
स्वहारतष्टे भवतस्तयोस्ते ॥२४८॥
क्षेपजे तक्षणाच्छुद्धे गुणाप्ती तो वियोगजे ॥२४९॥