प्रमुख संस्थानाम् ध्येयवाक्यानि - संस्कृतसूक्तयः सन्ति।

भारतमहाराज्येन “सत्यमेव जयते” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।

नेपालप्रशासनेन “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।

भारतस्य सर्वोन्नतन्यायालयस्य (Supreme Court of India) ध्येयवाक्यं “यतो धर्मः ततो जयः”इति महाभारतात् स्वीकृतम्। 

भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “धर्मचक्रप्रवर्तनाय” इति । 

भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् –“सेवा अस्माकं धर्मः” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।

भारतीय रैल् विभागस्य वाक्यम् – “श्रम एव जयते”। 

भारतस्य जीवनबीमानिगमः  इति संस्था श्रीमद् भगवद्गीतायाः “योगक्षेमं वहाम्यहम्” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।


नभः स्पृशं दीप्तम्” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थायाः अस्ति। 

भारतीय नौ सेना “शं नो वरुणः” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । 

आकाशवाणी “बहुजनहिताय बहुजनसुखाय” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।

दूरदर्शन् “सत्यं शिवं सुन्दरम्” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।

राष्ट्रिय विद्याभ्यासगवेषण-प्रशिक्षण परिषदः (एन सी ई आर् टि) ध्येयवाक्यम् “असतो मा सद्गमय” इति वर्तते।

केन्द्रीय विद्यालय संघटनम् इति केन्द्र सर्वकारस्य विद्या विभागस्य ध्येयवाक्यमस्ति “तत्त्वं पूषण्णपावृणु” इति ईशावास्योपनिषदः मन्त्रः।

केन्द्र सर्वकारेण संस्थापित नवोदय विद्यालयानां प्रेरणवाक्यम् “प्रज्ञानं ब्रह्म” इति महावाक्यम्। एतत् तैत्तिरीय उपनिषदः उद्धृतम्। 

भारत राष्ट्रीय शास्त्रीय संस्थया (Indian National Science Acadamy) यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “हवयामि र्भगः सवितुर्वरेण्यम्”।

Indian Railway Protection Force इत्यस्य प्रेरणवाक्यं “यशो लभस्व” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।

इन्डियन् एक्स्प्रेस् इति प्रसिद्ध आंग्ल वार्तापत्रिकायाः ध्येयवाक्यं “सर्वत्र विजयम्” इति।

विद्याभारती  विद्यासंस्थायाः ध्येयवाक्यं “सा विद्या या विमुक्तये” इति उपनिषद्वाक्यम्।

न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध आध्यात्मिक तथा सेवा संस्था श्री रामकृष्णमठः (Sri Rama Krishna Mission) तत्मठस्य ध्येयवाक्यम् “तन्नो हंसः प्रचोदयात्” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। 

हरियाना राज्यस्य धयेयवाक्यं “योगः कर्मसु कौशलम्” एतत् श्रीमद् भगवद्गीतायाः उद्धृतम्।

देहली विश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “निष्ठा धृतिः सत्यम्”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।

आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध आन्ध्रविश्वकला परिषत् (Andhra University) स्वध्येयवाक्यं “तेजस्विनावधीतमस्तु” इति उपनिषदः स्वीकृतम्। 

आन्ध्रप्रदेशस्थ उच्चमाद्यमिक शिक्षासंस्था (Intermediate Board) इत्यस्य ध्येयवाक्यं “विद्यया अमृतमश्नुते” इत्यस्ति।

श्री सत्यसाइ मानितविश्वविद्यालयस्य ध्येयवाक्यं “सत्यं वद धर्मं चर” इति तैत्तरीय उपनिषद्वाक्यम्। 

आचार्य नागार्जुन विश्वविद्यालयस्य (Acharya Nagarjuna University, Guntur) ध्येयवाक्यं “सत्ये सर्वं प्रतिष्ठितम् ” इति उपनिषद्वाक्यम्। 

केरळविश्वविद्यालयस्य ध्येयवाक्यं “कर्मणि व्यज्यते प्रज्ञा” इत्यस्ति।



 

Hits: 698
X

Right Click

No right click