रामायणम् अत्यन्तं प्रसिद्धं संस्कृतकाव्यम् ।
» भारतीयसाहित्ये अतिप्रमुखयोः काव्ययोः अन्यतमं इदं रामायणम् आदिकाव्यमिति प्रसिद्धम् ।
» आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः ।
» रामायणे २४००० श्लोकाः सन्ति । एते श्लोकाः अनुष्टुप्-छन्दसि निबद्धाः सन्ति ।
» रामयणे सप्तकाण्डानि (बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम्, किष्किन्धाकाण्डम्, सुन्दरकाण्डम्, युद्धकाण्डम्, उत्तरकाण्डम्) ५०० सर्गाश्च विद्यन्ते ।
» रामायणकथानायकः श्रीरामः हिन्दुभिः पूज्यमानेषु देवेषु अन्यतमः । अयं विष्णोः दश अवतारेषु सप्तमः अवतारः ।
» रामायणं त्रेतायुगे सम्पन्नम्ते । इदं क्रिस्तपूर्वपञ्चमे चतुर्थे शतके जातमिति इतिहासकारैः ऊह्यते ।
» वाल्मीकिरामायणे रामस्य जन्मनः आरभ्य तस्य अवतारसमाप्तिपर्यन्तमपि कथा भवति ।
» अस्मिन् मानवकर्तव्यानि प्रतिपाद्यन्ते । आदर्शपुत्रः, आदर्शपिता, आदर्शपतिः, आदर्शपत्नी, आदर्शभ्राता, आदर्शसेवकः...... इत्यादयः अत्र चित्रिताः सन्ति ।
»रामायणस्य प्रतिसहस्रतमस्य श्लोकस्य आदौ गायत्रीमन्त्रस्य एकैकम् अक्षरं प्राप्यते । पाठभेदादयः न भवेयुः इति उद्देशेन एवं कृतं स्यात् कविना।

Hits: 644
X

Right Click

No right click