अपर : स्वोऽन्तरस्त्यत्तद्यदेवेतत्किमसावयम्‌ ।
युष्मदस्मच्च प्रथमश्चरमोऽल्पस्तयार्धक : ॥४९॥

नेम : कतिपयो द्वे निपाता : स्वरादयस्तथा ।
उपसर्गविभक्तिस्वरप्रतिरूपाश्चाव्यया : ॥५०॥

तद्धिताश्चाप्यपत्यार्थे पाण्डवा : श्रैधरस्तथा ।
गार्ग्यो नाडायनात्रेयौ गाङ्गेय : पैतृष्वस्त्रीय : ॥५१॥

देवतार्थे चेदमर्थे ह्यैन्द्रं ब्राह्मो हविर्बलि : ।
क्रियायुजो : कर्मकर्त्रोर्धौरेय : कौङ्कुमं तथा ॥५२॥

भवाद्यर्थे तु कानीन : क्षत्रियो वैदिक : स्वक : ।
स्वार्थे चौरस्तु तुल्यार्थे चन्द्रवन्मुखमीक्षते ॥५३॥

राह्मणत्वं ब्राह्मणता भावे ब्राह्मण्यमेव च ।
गोमानधनी च धनवानस्त्यर्थे प्रमितौ कियान्‌ ॥५४॥

जातार्थे तुंदिल : श्रद्धालुरौन्नत्ये तु दन्तुर : ।
स्त्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थ एव च ॥५५॥

वाचालश्वैव वाचाटो बहुकुत्सितभाषिणि ।
ईषदपरिसमाप्तौ कल्पब्देशीय एव च ॥५६॥

कविकल्प : कविदेश्य : प्रकारवचने तथा ।
पटुजातीय : कुत्सायां वैद्यपाश : प्रशंसने ॥५७॥

वैद्यरूपो भूतपूर्वे मतो दृष्टचरो मुने ।
प्राचुर्यादिष्वन्नमयो मृन्मय : स्त्रीमयस्तथा ॥५८॥

जातार्थे लज्जितोऽत्यर्थे श्रेयाञ्छेष्ठश्च नारद ।
कृष्णतर : शुक्लतम : किम्‌ आख्यानतोऽव्ययात्‌ ॥५९॥

किन्तरां चैवातितरामपि ह्युच्चैस्तरामपि ।
परिमाणे जानुदघ्नं जानुद्वयसमित्यपि ॥६०॥

Hits: 388
X

Right Click

No right click