अथ व्याकरणं वक्ष्ये संक्षेपात्तव नारद ।
सिद्धरूपप्रबन्धेन मुखं वेदस्य साम्प्रतम् ॥१॥
सुप्तिडन्तं पदं विप्र सुपां सप्त विभक्तय : ।
स्वौजस : प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ॥२॥
सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ॥३॥
अमौशसो द्वितीया स्यात् तत्कर्म क्रियते च यत् ।
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥४॥
टाभ्याम्भिसस्तृतीया स्यात् करणे कर्तरीरिता ।
येन क्रियते तत्करणं स कर्ता स्यात्करोति य : ॥५॥
डेभ्याम्भ्यसश्चतुर्थी स्यात्सम्प्रदाने च कारके ।
यस्मै दित्सां धारयेद्वै रोचते सम्प्रदानकम् ॥६॥
पञ्चमी स्यान्डसिभ्याम्भ्यो ह्यपादाने च कारके ।
यतोऽपैति समादत्ते अपादाने च यं यत : ॥७॥
डसोसामश्च षष्ठी स्यात्स्वामिसम्बन्धमुख्यके।
डयोस्सुप : सप्तमी तु स्यात्सा चाधिकरणे भवेत्॥८॥
आधारे चापि विप्रेन्द्र रक्षार्थानां प्रयोगत : ।
ईप्सितं चानीप्सिताद् यत्तदपादानकं स्मृतम् ॥९॥
पञ्चमी पर्यपाङयोगे इतरर्तेऽन्यदिङमुखे ।
एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकै : ॥१०॥
लक्षणेत्थंभूतेऽभिरभागे चानुपरिप्रति ।
अन्तरेषु सहार्थे च हीए ह्युपश्च कथ्यते ॥११॥
द्वितीया च चतुर्थी स्याच्चेष्टायां गतिकर्मणि ।
अप्रणिषु विभक्ती द्वे मन्यकर्मण्यनादरे ॥१२॥