अथ संज्ञाप्रकरणम्

१ हलन्त्यम्

उपदेशेऽन्त्यं हलित्स्यात् । उपदेश आद्योच्चारणम् । सूत्रेष्वद्ृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र ।।.

२ अदर्शनं लोपः

प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ।.

३ तस्य लोपः

तस्येतो लोपः स्यात् । णादयोऽणाद्यर्थाः ।.

४ आदिरन्त्येन सहेता

अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाऽणिति अ इ उ वर्णानां संज्ञा । एवमच् हल् अलित्यादयः ।।.

५ ऊकालोऽज्झ्रस्वदीर्घप्लुतः

उश्च ऊश्च ऊ३श्च वः; वां कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादि भेदेन त्रिधा । .

६ उच्चैरुदात्तः

७ नीचैरनुदात्तः

८ समाहारः स्वरितः

स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा ।।.

९ मुखनासिकावचनोऽनुनासिकः

मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् – अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । लृवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ।।.

१० तुल्यास्यप्रयत्नं सवर्णम्

ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । (ऋलृवर्णयोर्मिथः सावण्र्यं वाच्यम्) । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैैतोः कण्ठतालु । ओदौैतोः कण्ठोष्टम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकाऽनुस्वारस्य । यत्नोे द्विधा – आभ्यन्तरो बाह्यश्च । आद्यः पञ्चधा – स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तःस्थानाम् । ईषद्विवृतमूष्मणाम् । विवृतं स्वराणाम् । ह्रस्वस्यावर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । बाह्यप्रयत्नस्त्वेकादशधा – विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणोमहाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति । खरो विवाराः श्वासा अघोषाश्च । हशः संवारा नादा घोषाश्च । वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः । वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः । कादयो मावसानाः स्पर्शाः । यणोऽन्तःस्थाः । शल ऊष्माणः । अचः स्वराः । -क-ख इति कखाभ्यां प्रगर्धविसर्गसद्ृशो जिह्वामूलीयः । -प-फ इति पफाभ्यां प्रागर्धविसर्गसद्ृश उपध्मानीयः । अं अः इत्यचः परावनुस्वारविसर्गौ ।।.

११ अणुदित्सवर्णस्य चाप्रत्ययः

प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात् । अत्रैवाण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् – अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रशिंतः । एवं लृकारोऽपि । एचो द्वादशानाम् । अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा ।.

१२ परः संनिकर्षः संहिता

वर्णानामतिशयितः संनिधिः संहितासंज्ञः स्यात् ।।.

१३ हलोऽनन्तराः संयोगः

अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ।।.

१४ सुप्तिङन्तं पदम्

सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ।।.

इति संज्ञाप्रकरणम्

Hits: 580
X

Right Click

No right click