कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ|
स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ|

कुक्षिभ्रूणाऽर्भका गर्भा विस्रम्भः प्रणयेऽपि च|
स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्|

स्यान्महारजते क्लीबं कुसुम्भं करके पुमान्|
क्षत्रियेऽपि च नाभिर् ना सुरभिर् गवि च स्त्रियाम्|

सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः|
इति भान्ताः|

Hits: 202
X

Right Click

No right click