भृशप्रतिज्ञयोर् बाढं प्रगाढं भृशकृच्छ्रयोः|
संघातग्रासयोः पिण्डी द्वयोः पुंसि कलेवरे|

गण्डौ कपोलविस्फोटौ मुण्डकस् त्रिषु मुण्डिते|
इक्षुभेदेऽपि खण्डोऽस्त्री शिखण्डो बर्हचूडयोः|

शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ|
इति ढान्ताः|

Hits: 191
X

Right Click

No right click