दण्डोऽस्त्री लगुडेऽपि स्याद् गुडो गोलेक्षुपाकयोः|
सर्प मांसात्पशू व्याडौ गोभूवाचस् त्विडा इलाः|

क्ष्वेडवंशशलाकाऽपि नाडी कालेऽपि षट्क्षणे|
काण्डोऽस्त्री दण्डबाणाऽर्ववर्गाऽवसरवारिषु|

स्याद् भाण्डमश्वाऽऽभरणेऽमत्रे मूलवणिग्धने|
इति डान्ताः|

Hits: 195
X

Right Click

No right click