काकेभगण्डौ करटौ गजगण्डकटी कटौ|
शिपिविष्टस् तु खलतौ दुश्चर्मणि महेश्वरे|

देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः|
रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः|

रिष्टं क्षेमाऽशुभाऽभावेष्वरिष्टे तु शुभाऽशुभे|
मायानिश्चलयन्त्रेषु कैतवाऽनृतराशिषु|

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्|
सूक्ष्मैलायां त्रुटिः स्त्री स्यात् कालेऽल्पे संशयेऽपि सा|

अत्युत्कर्षाऽश्रयः कोट्यो मूले लग्नकचे जटा|
व्युष्टिः फले समृद्धौ च दृष्टिर् ज्ञानेऽक्ष्णि दर्शने|

इष्टिर् योगेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु ('बहूनि'?)|
कष्टे तु कृच्छ्रगहने दक्षाऽमन्दाऽगदेषु तु|

पटुर् द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च|

पोटा दासी द्विलिंगा च घृष्टी घर्षणसूकरौ|
घटा घोष्ठ्यां हस्तिपङ्क्तौ कृपीटमुदरे जले|
इति टान्ताः|

Hits: 213
X

Right Click

No right click