केकि तार्क्ष्यावहिभुजौ दन्तविप्राऽण्डजा द्विजाः|
अजा विष्णुहरच्छागा गोष्ठाऽध्वनिवहा व्रजाः|

धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम्|
वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना|

समे क्ष्माऽंशे रणेऽप्याजिः प्रजा स्यात् संततौ जने|
अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु|

इति जान्ताः|

Hits: 194
X

Right Click

No right click