आशुगौ वायुविशिखौ शराऽर्कविहगाः खगाः|
पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः|

पशवोऽपि मृगा वेगः प्रवाहजवयोरपि|
परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि|

गजेऽपि नागमातङ्गावपाङ्गस् तिलकेऽपि च|
सर्गः स्वभावनिर्मोक्षनिश्चयाऽध्यायसृष्टिषु|

योगः संनहनोपायध्यानसंगतियुक्तिषु|
भोगः सुखे स्त्र्यादिभृतावहेश् च फणकाययोः|

चातके हरिणे पुंसि सारङ्गः शवले त्रिषु|
कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे|

यानाऽऽद्यङ्गे युगः पुंसि युगं युग्मे कृताऽऽदिषु|
स्वर्गेषुपशुवाग्वज्र दिङ्नेत्रधृणिभूजले|

लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर् लिङ्गं चिह्न शेफसोः|
शृङ्गं प्राधान्यसान्वोश् च वराङ्गं मूर्धगुह्ययोः|

भगं श्रीकाममाहात्म्यवीर्ययत्नाऽर्ककीर्तिषु|
इति गान्ताः|

Hits: 225
X

Right Click

No right click