भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्|
सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः|

पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः|
पर्यङ्कः स्यात् परिकरे स्याद् व्याग्रेऽपि च लुब्धकः|

पेटकस् त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः|
खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः|

पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च|
स्यात् कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः|

करिण्यां चापि गणिका दारकौ बालभेदकौ|
अन्धेऽप्यनेडमूकः स्यात् टङ्कौ दर्पाऽश्मदारणौ|

मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजकं रसदर्वके|
इति कान्ताः|

 

Hits: 235
X

Right Click

No right click