उत्ख़ारश् च निकारश् च द्वौ धान्योत्क्षेपणाऽर्थकौ|
निगारोद्गारविक्षावोद्ग्राहास् तु गरणाऽऽदिषु|

आरत्यवरतिविरतय उपरामेऽथाऽस्त्रियां तु निष्ठेवः|
निष्ठयूतिर् निष्ठेवननिष्ठीवनमित्यभिन्नानि|

जवने जूतिः सातिस् त्ववसाने स्यादथ ज्वरे जूर्तिः|
उदजस् तु पशु प्रेरणमकरणिरित्याऽऽदयः शापे|

गोत्राऽन्तेभ्यस् तस्य वृन्दमित्यौपगवकाऽऽदिकम्|
आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम्|

माणवानां तु माणव्यं सहायानां सहायता|
हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम्|

द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात्|
खलानां खलिनी खल्याऽप्यथ मानुष्यकं नृणाम्|

ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक्|
अपि साहस्रकारीषवार्मणाऽऽथर्वणाऽऽदिकम्|

इति संकीर्णवर्गः

Hits: 211
X

Right Click

No right click