उपलम्भस् त्वनुभवः समालम्भो विलेपनम्|
विप्रलम्भो विप्रयोगो विलम्भस् त्वतिसर्जनम्|

विश्रावस् तु प्रतिख्यातिरवेक्षा प्रतिजागरः|
निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने|

आदीनवाऽऽस्रवौ क्लेशे मेलके संगसंगमौ|
संवीक्षनं विचयनं मार्गणं मृगणा मृगः|

परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्|
निर्वर्णनं तु निध्यानं दर्शनाऽऽलोकनेक्षणम्|

प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः|
उपशायो विशायश् च पर्यायशयनाऽर्थकौ|

अर्तनं च ऋतीया च हृणीया च घृणाऽर्थकाः|
स्याद् व्यत्यासो विपर्यासो व्यत्ययश् च विपर्यये|

पर्ययोऽतिक्रमस् तस्मिन्नतिपात उपात्ययः|
प्रेषणं यत् समाहूय तत्र स्यात् प्रतिशासनम्|

स संस्तावः क्रतुषु या स्तुतिभूमिर् द्विजन्मनाम्|
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः|

स्तम्बघ्नस् तु स्तम्बघनः स्तम्बो येन निहन्यते|
आविधो विध्यते येन तत्र विष्वक्समे निघः|

Hits: 213
X

Right Click

No right click