प्रकृतिप्रत्ययाऽर्थाऽऽद्यैः संकीर्णे लिङ्गमुन्नयेत्|
अथ संकीर्णवर्गः

कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः|
साकल्याऽऽसंगवचने पारायणपरायणे|

यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम्|
शमथस् तु शमः शान्तिर् दान्तिस् तु दमथो दमः|

अवदानं कर्म वृत्तं काम्यदानं प्रवारणम्|
वशक्रिया संवननं मूलकर्म तु कार्मणम्|

विधूननं विधुवनं तर्पणं प्रीणनाऽवनम्|
पर्याप्तिः स्यात् परित्राणं हस्तधारणमित्यपि|

सेवनं सीवनं स्यूतिर् विदरः स्फुटनं भिदा|
आक्रोशनमभीषङ्गः संवेदो वेदना न ना|

संमूर्च्छनमभिव्याप्तिर् याञ्चा भिक्षाऽर्थनाऽर्दना|
वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने|

आप्रच्छन्नमथाऽऽम्नायः संप्रदायः क्षये क्षिया|
ग्रहे ग्राहो वशः कान्तौ रक्ष्णस् त्राणे रणः कणे|

व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ|
ओषः प्लोषे नयो नाये ज्यानिर् जीर्णौ भ्रमो भ्रमौ|

स्फातिर् वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे|
एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा|

प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे|
उत्कर्षोऽतिशये संधिः श्लेषे विषय आश्रये|

क्षिपायां क्षेपणं गीर्णिर् गिरौ गुरणमुद्यमे|
उन्नाय उन्नये श्रायः श्रयणे जयने जयः|

निगादो निगदे मादो मद उद्वेग उद्भ्रमे|
विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः|

निग्रहस् तद्विरुद्धः स्यादभियोगस् त्वभिग्रहः|
मुष्टिबन्धस् तु संग्राहो डिम्बे डमरविप्लवौ|

बन्धनं प्रसितिश् चारः स्पर्शः स्प्रष्टोपतप्तरि|
निकारो विप्रकारः स्यादाकारस् त्विङ्ग इङ्गितम्|

Hits: 254
X

Right Click

No right click