परिणामो विकारे द्वे समे विकृतिविक्रिये|
अपहारस् त्वपचयः समाहारः समुच्चयः|

प्रत्याहार उपादानं विहारस् तु परिक्रमः|
अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्|

अनुहारोऽनुकारः स्यादर्थस्याऽपगमे व्ययः|
प्रवाहस् तु प्रवृत्तिः स्यात् प्रवहो गमनं बहिः|

वियामो वियमो यामो यमः संयामसंयमौ|
हिम्साकर्माऽभिचारः स्याज् जागर्या जांगरा द्वयोः|

विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये|
निर्वेश उपभोगः स्यात् परिसर्पः परिक्रिया|

विधुरं तु प्रविश्लेषेऽभिप्रायश् छन्द आशयः|
संक्षेपणं समसनं पर्यवस्था विरोधनम्|

परिसर्या परीसारः स्यादास्या त्वासना स्थितिः|
विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः|

संवाहनं मर्दनं स्याद् विनाशः स्याददर्शनम्|
संस्तवः स्यात् परिचयः प्रसरस् तु विसर्पणम्|

नीवाकस् तु प्रयामः स्यात् संनिधिः संनिकर्षणम्|
लवोऽभिलाषो लवने निष्पावः पवने पवः|

प्रस्तावः स्यादपसरस् त्रसरः सूत्रवेष्टनम्|
प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ|

धीशक्तिर् निष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः|
प्रत्युत्क्रमः प्रयोगाऽर्थः प्रक्रमः स्यादुपक्रमः|

स्यादभ्यादानमुद्धात आरम्भः संभ्रमस् त्वरा|
प्रतिबन्धः प्रविष्टम्भोऽवनायस् तु निपातनम्|

Hits: 213
X

Right Click

No right click