दवीयश् च दविष्ठं च सुदूरं दीर्घमायतम्|
वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्|

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने|
न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनताऽऽनतम्|

अरालं वृजिनं जिह्ममूर्मिमत् कुञ्चितं नतम्|
आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि|

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाऽऽकुलौ |
शाश्वतस् तु ध्रुवो नित्यसदातनसनातनाः|

स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः|
कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः|

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्|
चलनं कम्पनं कम्प्रं चलम् लोलं चलाचलम्|

चञ्चलं तरलं चैव पारिप्लवपरिप्लवे|
अतिरिक्तः समधिको धृढसंधिस् तु संहतः|

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं धृढम्|
जरठं मूर्तिमन् मूर्तं प्रवृद्धं प्रौढमेधितम्|

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः|
प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः|

नूत्नश् च सुकुमारं तु कोमलं मृदुलम् मृदु|
अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्|

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्|
एकतानोऽनन्यवृत्तिरैकाग्रैकायनावपि|

अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः|
पुंस्यादिः पूर्वपौरस्त्यप्रथमाऽऽद्या अथाऽस्त्रियाम्|

Hits: 230
X

Right Click

No right click