स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः|
सिंहशार्दूलनागाऽऽद्याः पुंसि श्रेष्ठाऽर्थगोचराः|

अप्राग्रयं द्वयहीने द्वे अप्रधानोपसर्जने|
विशंकटं पृथु बृहद् विशालं पृथुलं महत्|

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे|
स्तोकाऽल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु|

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाऽणवः|
अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि|

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु|
पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च|

परः शताऽऽद्यास् ते येषां परा संख्या शताऽऽदिकात्|
गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्|

विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम्|
समग्रं सकलं पूर्णमखण्डं स्यादनूनके|

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु|
समीपे निकटाऽऽसन्नसंनिकृष्टसनीडवत्|

सदेशाऽभ्याशसविधसमर्यादसवेशवत्|
उपकण्ठाऽन्तिकाऽभ्यर्णाऽभ्यग्रा अप्यभितोऽव्ययम्|

संसक्ते त्वव्यवहितमपदान्तरमित्यपि|
नेदिष्ठमन्तिकतमं स्याद् दूरं विप्रकृष्टकम्|

Hits: 230
X

Right Click

No right click