उद्भिदस् तरुगुल्माऽऽद्या उद्भिदुद्भिज्जमुद्भिदम्|
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्|

कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्|
रम्यं मनोहरं सौम्यं भद्रकं रमणीयकम्|

तदासेचनकं तृप्तेर् नास्त्यन्तो यस्य दर्शनात्|
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्|

निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः|
कुपूयकुत्सिताऽवद्यखेटगर्ह्याऽणकाः समाः|

मलीमसं तु मलिनं कच्चरं मलदूषितम्|
पूतं पवित्रं मेध्यं च वीध्रं तु विमलाऽर्थकम्|

निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्|
असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके|

क्लीबे प्रधानं प्रमुखप्रवेकाऽनुत्तमोत्तमाः|
मुख्यवर्यवरेण्याश् च प्रवर्होऽनवरार्ध्यवत्|

परार्ध्याऽग्रप्राग्रहरप्राग्रयाऽग्रयाऽग्रीयमग्रियम्|
श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश् चाऽतिशोभने|

Hits: 237
X

Right Click

No right click