अधीरे कातरस् त्रस्ते भीरुभीरुकभीलुकाः|
आशंसुराशंसितरि गृहयालुर् ग्रहीतरि|

श्रद्धालुः श्रद्धया युक्ते पतयालुस् तु पातुके|
लज्जाशीलेऽपत्रपिष्णुर् वन्दारुरभिवादके|

शरारुर् घातुको हिंस्रः स्याद् वर्द्धिष्णुस् तु वर्द्धनः|
उत्पतिष्णुस् तूत्पतिताऽलङ्करिष्णुस् तु मण्डनः|

भूष्णुर् श्वविष्णुर् भविता वर्तिष्णुर् वर्तनः समौ|
निराकरिष्णुः क्षिप्नुः स्यात् सान्द्रस्निग्धस् तु मेदुरः|

ज्ञाता तु विदुरो विन्दुर् विकासी तु विकस्वरः|
विसृत्वरो विसृमरः प्रसारी च विसारिणि|

सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी|
क्रोधनोऽमर्षणः कोपी चण्डस् त्वत्यन्तकोपनः|

जागरूको जागरिता घूर्णितः प्रचलायितः|
स्वप्नक् शयालुर् निद्रालुर् निद्राणशयितौ समौ|

पराङ्मुखः पराचीनः स्यादवाङ्प्यधोमुखः|
देवानञ्चति देवद्र्यङ् विश्वद्र्यङ् विश्वगञ्चति|

यस्सहाञ्चति सध्र्यङ् स स तिर्यङ् यस्तिरोऽञ्चति|
वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ|

वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि|
स्याज् जल्पाकस् तु वाचालो वाचाटो बहुगर्ह्यवाक्|

दुर्मुखे मुखराऽबद्धमुखौ शक्लः प्रियम्वदे|
लोहलः स्यादस्फुटवाग् गर्ह्यवादी तु कद्वदः|

Hits: 230
X

Right Click

No right click