स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः|
परतन्त्रः पराधीनः परवान् नाथवानपि|

अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ|
खलपूः स्याद् बहुकरो दीर्घसूत्रश् चिरक्रियः|

जाल्मोऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः|
कर्मक्षमोऽलङ्कर्माणः क्रियावान् कर्मसूद्यतः|

स कार्मः कर्मशीलो यः कर्मशूरस् तु कर्मठः|
भरण्यभुक् कर्मकरः कर्मकारस् तु तत् क्रियः|

अपस्नातो मृतस्नात आमिषशी तु शौष्कुलः|
बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः|

परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः|
आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते|

उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके|
सर्वान्नीनस् तु सर्वान्नभोजी गृध्नुस्तु गर्धनः|

लुब्धोऽभिलापुकस् तृष्णक् समौ लोलुपलोलुभौ|
सोन्मादस् तून्मदिष्णुः स्यादविनीतः समुद्धतः|

मत्ते शौण्डोत्कटक्षीबाः कामुके कमिताऽनुकः|
कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः|

विधेयो विनयग्राही वचनेस्थित आश्रवः|
वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः|

धृष्टे धृष्णग् वियातश् च प्रगल्भः प्रतिभान्विते|
यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते|

Hits: 174
X

Right Click

No right click