पङ्क्तेः शतसहस्राऽऽदि क्रमाद्दशगुणोत्तरम्|
यौतवं द्रुवयं पाय्यमिति मानाऽर्थकं त्रयम्|

मानं तुलाङ्गुलिप्रस्थैर् गुञ्जाः पञ्जाऽऽद्यमाषकः|
ते षोडशाऽक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम्|

सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले|
तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः|

आचितो दश भाराः स्युः शाकटो भार आचितः|
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः|

अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः|
कुडवः प्रस्थ इत्याऽऽद्याः परिमाणाऽर्थकाः पृथक्|


पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके|
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु|

हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि|
स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताऽकृते|

ताभ्यां यदन्यत् तत्कुप्यं रूप्यं तद् द्वयमाहतम्|
गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः|

शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम्|
मुक्ताऽथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्|

रत्नं मणिर्द्वयोरश्मजातौ मुक्ताऽऽदिकेऽपि च|
स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्|

तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्वुरम्|
चामीकरं जातरूपं महारजतकाञ्चने|

Hits: 209
X

Right Click

No right click