कुठरो दन्डविष्कम्भो मन्थनी गर्गरी समे|
उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः|

करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः|
अजा च्छागी शुभच्छागबस्तच्छगलका अजे|

मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके|
उष्ट्रोरभ्राऽजवृन्दे स्यादौष्ट्रकौरभ्रकाऽऽजकम्|

चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः|
वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक्|

पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः|
विक्रेता स्याद्विक्रयिकः क्रायिकक्रयिकौ समौ|

वाणिज्यं तु वणिज्या स्यान् मूल्यं वस्नोऽप्यवक्रयः|
नीवी परिपणो मूलधनं लाभोऽधिकं फलम्|

परिदानं परीवर्तो नैमेयनियमावपि|
पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्|

क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके|
विक्रेयं पणितव्यं च पण्यं क्रय्याऽऽदयस्त्रिषु|

क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्|
विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु|

विंशत्याऽऽद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः|
संख्याऽर्थे द्विबहुत्वे स्तस् तासु चाऽऽनवतेः स्त्रियः|

Hits: 229
X

Right Click

No right click