घटः कुटनिपावस्त्री शरावो वध।र्मानकः |
ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् |

कुतूः कृत्तेः स्नेहपात्रं सैवाऽल्पा कुतुपः पुमान् |
सव।र्मावपनं भाण्डं पात्रामत्रे च भाजनम् |

दवि।र्ः कम्बिः खजाका च स्यात् तद्दूर् दारुहस्तकः |
अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका |

कलम्बश् च कदम्बश् च वेषवार उपस्करः |
तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् |

मरीचं कोलकं कृष्णभूषणं धम।र्पत्तनम् |
जीरको जरणोऽजाजि कणाः कृष्णे तु जीरके |

सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका |
आर्द्रकं शृङ्गबेरं स्यादथ छत्रा वितुन्नकम् |

कुस्तुम्बरु च धान्याकमथ शुण्ठी महौषधम् |
स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् |

आरनालकसौवीरकुल्माषऽभिशुतानि च |
अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके |

सहस्रवेधि जतुकं बल्हीकं हिङ्गु रामठम् |
तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः |

निशाऽऽख्या काञ्चनी पीता हरिद्रा वरवणि।र्नी |
सामुद्रं यत् तु लवणमक्षीवं वशिरं च तत् |

सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे|
रौमकं वसुकं पाक्यं बिडं च कृतके द्वयम्|

Hits: 218
X

Right Click

No right click