मतङ्गजो गजो नागः कुञ्जरो वारणः करी|
इभः स्तम्बेरभः पद्मी यूथनाथस्तु यूथपः|

मदोत्कटो मदकलः कलभः करिशावकः|
प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ|

हास्तिकं गजता व्।र्न्दे करिणी धेनुका वशा|
गण्डः कटो मदो दानं वमथुः करशीकरः|

कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान।
अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम।

अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका|
अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत।

आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम।
पार्श्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः|

द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात।
तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ श्।र्ङ्खले|

अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री स्।र्णिः स्त्रियाम।
दूष्या (चूषा) कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे|

प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः|
वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी|

घोटके वीति (पीति)तुरगतुरङ्गाश्वतुरङ्गमाः|
वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः|

आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः|
वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः|

Hits: 197
X

Right Click

No right click