सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम।
यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः|

चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ|
सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि|

स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि|
तान्त्रिको ज्ञातसिद्धान्तः सत्री ग्।र्हपतिः समौ|

लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके|
लिखिताक्षरविन्यासे (संस्थाने) लिपिर्लिब्(भ्)इरुभे स्त्रियौ|

स्यात्संदेशहरो दूतो दूत्यं तद्भावकर्मणी|
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि|

स्वाम्यमात्यसुह्।र्त्कोशराष्ट्रदुर्गबलानि च|
राज्याङ्गानि प्रक्।र्तयः पौराणां श्रेनयोऽपि च|

संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः|
षड्गुणा: शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः|

क्षयः स्थानं च व्।र्द्धिश्च त्रिवर्गो नीतिवेदिनाम।
स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम।

भेदो दण्डः साम दानमित्युपायचतुष्टयम।
साहसं तु समो (दमो) दण्डः साम सान्त्वमथो समौ|

भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम।
पञ्च त्रिष्वषडक्षीणो यस्त्।र्तीयाद्यगोचरः|

विविक्तविजनच्छन्ननिःशलाकास्तथा रहः|
रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु|

Hits: 226
X

Right Click

No right click