थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः|
पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः|

पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः|
अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं ब्।र्षी|

अजिनं चर्म क्।र्त्तिः स्त्री भैक्षं भिक्षाकदम्बकम।
स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा|

सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम।
दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः प्।र्थक।

शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः|
नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम।

क्षौरम् तु भद्राकरणं मुण्डनं वपनं त्रिषु|
Eण्()कक्षापटी च कौपीनं शाटी च स्त्रीति लक्ष्यतः|

उपवीतं ब्रह्मसूत्रं प्रोद्ध्।र्ते दक्षिणे करे|
प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम।

अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम।
मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम।

स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि|
देवभूयादिकं तद्वत्क्ॅह्छं सान्तपनादिकम।

संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा|
नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना|

व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराक्।र्तिः|
धर्मध्वजी लिङ्गव्।र्त्तिरवकीर्णी क्षतव्रतः|

सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च|
अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम।

परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात।
परिवित्तिस्तु तज्जायान्विवाहोपयमौ समौ|

तथा परिणयोद्वाहोपयामाः पाणिपीडनम।
व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम।

त्रिवर्गोधर्मकामार्थैश्चतुर्वर्गः समोक्षकैः|
सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धाः वरस्य ये| इति ब्रह्मवर्गः

Hits: 207
X

Right Click

No right click