वरिवस्या तु शुश्रूषा परिचर्याप्युपासना|
व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः|

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम।
प्राचेतसश्चाअदिकविः स्यान्मैत्रावरुणिश्च सः|

वाल्मीकश्चाथ गाधेयो विश्वामित्रश्च कौशिकः|
व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः|

आनुपूर्वी स्त्रियां वाव्।र्त्परिपाठी अनुक्रमः|
पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः|

नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम।
औपवस्तं तूपवासः विवेकः प्।र्थगात्मता|

स्याद्ब्रह्मवर्चसं व्।र्त्ताध्ययनर्द्धिरथाञ्जलिः|
पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः|

ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ|
मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः|

संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः|
समे तु पादग्रहणमभिवादनमित्युभे|

भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी|
तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः|

तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः|
।र्षयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती|

ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते |
यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ|

Hits: 200
X

Right Click

No right click