तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम।
तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम।

कुचन्दनं चाथ जातीकोशजातीफले समे|
कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः|

गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम।
चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु|

संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम।
माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः |

प्रभ्रष्तकं शिखालम्बि पुरोन्यस्तं ललामकम।
प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् |

यत्तिर्यक् क्षिप्तमुरसि शिखास्वापीडशेखरौ|
रचना स्यात्परिस्यन्द आभोगः परिपूर्णता|

उपधानं तूपबर्हः शय्यायां शयनीयवत।
शयनं मञ्चपर्यङ्कपल्यङ्काः खट्व्या समाः|

गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् |
समुद्गकः संपुटकः प्रतिग्राहः पतद्ग्रहः|

प्रसाधनी कङ्कतिका पिष्टातः पटवासकः|
दर्पणे मुकुरादर्शौ व्यजनं तालव्।र्न्तकम।  इति मनुष्यवर्गः

Hits: 231
X

Right Click

No right click