स्कन्धो भुजशिरोंसोऽस्त्री संधी तस्यैव जत्रुणी|
बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः|

मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः|
भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः|

अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः |
मणीबन्धादाकनिष्ठं करस्य करभो बहिः|

पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी|
अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी|

मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात।
पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम।

प्रादेशतालगोकर्णास्तर्जन्यादियुते तते|
अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः|

पाणौ चपेटप्रतलप्रहस्ता विस्त्।र्ताङ्गुलौ |
द्वौ संहतौ संहततलप्रतलौ वामदक्षिणौ|

पाणिर्निकुब्जः प्रस्।र्तिस्तौ युतावञ्जलिः पुमान।
प्रकोष्ठे विस्त्।र्तकरे हस्तो मुष्ट्या तु बद्धया|

स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना|
व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगनन्तरम।

ऊर्ध्वविस्त्।र्तदोः पाणिन्।र्माने पौरुषं त्रिषु|
कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि|

कम्बुग्रीवा त्रिरेखा साऽवटुर्घाटा क्।र्काटिका|
वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम।

Hits: 215
X

Right Click

No right click