क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः |
कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः |

कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ |
हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः |

राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः |
मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः |

शरारिराटिराडिश्च बलाका बिसकण्ठिका |
हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा |

जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका |
वर्वणा मक्षिका नीला सरघा मधुमक्षिका  |

पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका |
दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः |

भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः |
समौ पतङ्गशलभौ खध्योतो ज्योतिरिङ्गणः |

मधुव्रतो मधुकरो मधुलिण्मधुपालिनः |
द्विरेफपुष्पलिड् भृङ्ग षट्पद भ्रमरालयः |

मयूरो बर्हिणो बर्ही नीलकण्ठो भुजंगभुक् |
शिखावलः शिखी केकी मेघनादानुलास्यपि |

Hits: 248
X

Right Click

No right click