सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः |
कण्टीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः |

पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः |
शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः  |

वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः |
दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि |

कपिप्लवंगप्लवगशाखामृगवलीमुखाः |
मर्कटो वानरः कीशो वनौका अथ भल्लुके |

ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ |
लुलायो महिषो वाहाद्विषत्कासरसैरिभाः |

स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः |
शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः |

ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् |
त्रयो गौधेरगौधारगौधेया गोधिकात्मजे |

श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् |
वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः |

मृगे कुरङ्गवातायुहरिणाजिनयोनयः |
ऐणेयमेण्याश्चर्माध्यमेणस्यैणमुभे त्रिषु |

कदली कन्दली चीनश्चमूरुप्रियकावपि |
समूरुश्चेति हरिणा अमी अजिनयोनयः |

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः |
गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः |

गन्धर्वः शरभो रामः सृमरो गवयः शशः |
इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः  |

Hits: 205
X

Right Click

No right click