आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम् फले|
बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम्|

पुष्पे जातीप्रभृतयः स्वलिङ्गाः व्रीहयः फले|
विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला|

बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः|
अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः|

तस्मिन्दधिफलः पुष्पफलदन्तशठावपि|
उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः|

कोविदारे चमरिकः कुद्दालो युगपत्रकः|
सप्तपर्णो विशालत्वक् शारदो विषमच्छदः|

आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः|
आरेवतव्याधिघातकृतमालसुवर्णकाः|

स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः|
वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः|

पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः|
पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः|

तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः|
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ|

आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ|
वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः|

पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे|
अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः|

पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे|
रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः|

Hits: 160
X

Right Click

No right click