लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि|
नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः|

अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः|
समे शाखालते स्कन्धशाखाशाले शिफाजटे|

शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता|
शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः|

सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्|
काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्|

निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ|
पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्|


पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्|
वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम्|

आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु|
क्षारको जालकं क्लीबे कलिका कोरकः पुमान्|

स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम् |
स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्|


मकरन्दः पुष्परसः परागः सुमनोरजः|
द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम्|

Hits: 194
X

Right Click

No right click