अटव्यरण्यं विपिनं गहनं काननं वनम्| अथ वनौषधिवर्गः

महारण्यमरण्यानी गृहारामास्तु निष्कुटाः|
आरामः स्यादुपवनं कृत्रिमं वनमेव यत्|

अमात्यगणिकागेहोपवने वृक्षवाटिका|
पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्|

स्यादेतदेव प्रमदवनमन्तःपुरोचितम्|
वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः|

वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि|
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः|

अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः|
वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः|

ओषध्यः फलपाकान्ताः स्युरवन्ध्यह् फलेग्रहिः|
वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली|

प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः|
फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु|

स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः|
अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता |

Hits: 189
X

Right Click

No right click