महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः|  अथ शैलवर्गः

अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः|
लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ|

अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः|
हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रिकः|

गन्धमादनमन्ये च हेमकूटादयो नगाः|
पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्|

कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः|
कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्|

उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः|
दरी तु कन्दरो वा स्त्री देवखातबिले गुहा|

गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः|
Eण्()दन्तकास्तु बहिस्तिर्यक् प्रदेशान्निर्गता गिरेः|

खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः|
उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका|

धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः|
निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे| इति शैलवर्गः

Hits: 181
X

Right Click

No right click