Eagerness or curiosity (4), Women's affectionate actions (six listed) (1) |
कौतूहलं कौतुकं च कुतुकं च कुतूहलम्|
स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा|
हेला लीलेत्यमी हावाःक्रियाः शृङ्गारभावजाः|

Sport or amusement (6), Concealment or disguise (3) |
द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च|
व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्|

Sweat (3), Unconsciousness (2), camouflage (2), Excitement or hurry (2) |
घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता|
अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ|

Three laughs: loud articulated (1), smile (1), laugh (1), Thrill (goosepimples) (2) |
स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम्|
मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्|

Weeping (3), Yawning (2), Dishonest talk (2), Deviation or failure (2) |
क्रन्दितं रुदितम् क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्|
विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे|

Sleep (5), Sleepiness or lassitude (2), Frown (3)
स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि|
तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्|

(Angry) staring (1), Natural state or nature (5), trembling (2), Elation or festival (5) |
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे|
स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः|
कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः| इति नाट्यवर्गः

Hits: 174
X

Right Click

No right click