Vocatives for different female servants (1) each, Gesture (2), Expressive gesture (2) |
हण्डे हञ्जे हलाऽऽह्वाने नीचां चेटीं सखीं प्रति|
अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाऽभिनयौ समौ|

Acting by body or expression (1), Eight types of emotions (rasa) listed |
निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके|
शृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः|

Love emotion (3), Heroism (2), Tenderness (7), Merriment (3), Disgust(2) |
बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः|
उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा|
कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः|
हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्|

Wonderment (4), Terror (9), Anger or horror (2), Fear (6) |
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्|
दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्|
भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु|
चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्|

Hits: 172
X

Right Click

No right click