White (16), Grey (off-white) (2), Black or dark blue (7) |
शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः|
अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः|
हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः|
कृष्णे नीलासितश्यामकालश्यामलमेचकाः|

Yellow (3), Green (3), Red (2), Crimson (1) |
पीतो गौरो हरिद्राभः पलाशो हरितो हरित्|
लोहितो रोहितो रक्तः शोणः कोकनदच्छविः|

Light pink (1), Dark pink (1), Brown (2), Purple (3) |
अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः|
श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते|

Tawny (6), variegated (6) |
कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ|
चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे|


Colors as words are masculine, as adjectives follow nouns |
गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति | इति धीवर्गः ॥

Hits: 185
X

Right Click

No right click