ध्रुव - २, अगस्त्य - ३, अगस्त्य पत्नी 

ध्रुव औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः|
मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी|

तारकासमूह -६, २७ नक्षत्रे व त्यातील तारे
नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम्|
दाक्षायिण्योऽश्विनीत्यादितारा अश्वयुगश्विनी|
राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया|
समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः|
मृगशीर्षं मृगशिरस्तस्मिन्नेवाऽऽग्रहायणी|
इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः|

गुरु ग्रह -९
बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः|
जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः|

शुक्र ग्रह - ६
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः|

मंगळ ग्रह - ५, बुध ग्रह -३
अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः|
रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्वरौ|

राहू किंवा धूमकेतू - ५
तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः|

सप्तर्षि तारकासमूह
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः|

राशींचा उदय- लग्न, रास
राशीनामुदयो लग्नं ते तु मेषवृषादयः|

Hits: 178
X

Right Click

No right click