पाऊस - २, दुष्काळ - २, संततधार -२, पावसाचे थेंब 

वृष्टिवर्षं तद्विघातेऽवग्राहाऽवग्रहौ समौ|
धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः|

गारा - २, ढगाळ
वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्|

ढगांचे आच्छादन- ८
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्|
अपिधानतिरोधानपिधानाऽऽच्छादनानि च|

चंद्र-२०
हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः|
विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः|
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः|
द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः|

चंद्राचा सहावा भाग चंद्रकोर, पूर्ण चंद्र -२
कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु|

तुकडा, भाग -४, अर्धा,
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके|
चंद्रप्रकाश - ३, आल्हाददायक प्रकाश
चन्द्रिका कौमुदी ज्योत्स्ना प्रसाद्स्तु प्रसन्नता|

खूण किंवा डाग - ६
कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्|

Hits: 160
X

Right Click

No right click