वरुण - ५ 

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः|

वायु - २०
श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः|
पृषदश्वो गन्धवहो गन्धवाहाऽनिलाऽऽशुगाः|
समीरमारुतमरुत् जगत्प्राणसमीरणाः|
नभस्वद्वातपवनपवमानप्रभञ्जनाः|

वादळ
प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः|

शरिरातील पाच वायु
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः|
शरीरस्था इमे रंहस्तरसी तु रयः स्यदः|
जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्|

जलद - ११
सत्वरं चपलं तूर्णमविलम्बितमाशु च|

अविनाशी -९, अतिरिक्त-१४
सततेऽनारताऽश्रान्तसंतताविरतानिशम्|
नित्याऽनवरताऽजस्रमप्यथाऽतिशयो भरः|
अतिवेलभृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम्|
तीव्रैकान्तनितान्तानि गाढबाढदृढानि च|
क्लीबे शीघ्राऽऽद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत्|

Hits: 183
X

Right Click

No right click