नदी, आकाशगंगा ४, सोन्याचा मेरु पर्वत ५

मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका|
मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः|

पाच देवस्वरुप वृक्ष
पञ्चैते देवतरवो मन्दारः पारिजातकः|
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्|

सनत् कुमार -२, आश्विनीकुमार - ६,अप्सरा २
सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ|
नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ|
स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः|

गंधर्व -२, अग्नि-३४, सागर-३४, वडवानल -३
हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्|
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः|
कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्|
बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्बुधः|
आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः|
रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः|
हिरण्यरेता हुतभुग् दहनो हव्यवाहनः|
सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः|
शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः|

Hits: 191
X

Right Click

No right click