इंद्र 

इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः|
वॄद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः|
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः|
सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा|
बास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः|
जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः|
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः|
आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया|

इन्द्राची पत्नी शची
पुलोमजा शचीन्द्राणी नगरी त्वमरावती|


इंद्राचा घोडा, सारथी,पुत्र,बाग,राजवाडा,दोन पुत्र
हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम्|
स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः|

इंद्राचा ऐरावत ४, वज्र-१०
ऐरावतोऽभ्रमातङ्गैरावणाऽभ्रमुवल्लभाः|
ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः|
शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः|

विमान-२,नारद, मंत्री २ अमृत ३
व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः|
स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा|

Hits: 182
X

Right Click

No right click