शिव - ५२

शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः |
ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः|
भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः|
मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः|
उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्|
वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः|
कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः|
हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः|
गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः|
व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः|
अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः|

शंकराच्या जटा, धनुष्य, सेवक व माता
कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः|
प्रमथा: स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः|

शंकराची प्रतिभा व सामर्थ्य
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा|

शंकाराचेआठ योग
अणिमा महिमा चैव गरिमा लघिमा तथा|
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः|

Hits: 182
X

Right Click

No right click