ब्रह्म
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः|
हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः|
धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः|
स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः|
नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः|
सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः|

विष्णु - ४६
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः|
दामोदरो हृषीकेशः केशवो माधवः स्वभूः|
दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः|
पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः|
उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः|
पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः|
देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः|
वनमाली बलिध्वंसी कंसारातिरधोक्षजः|
विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः|
पुराणपुरुषो यज्ञपुरुषो नरकान्तकः|
जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः|

वसुदेव - कृष्णपिता
वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः|

बलराम
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः|
रेवतीरमणो रामः कामपालो हलायुधः|
नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली|
संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः|

Hits: 225
X

Right Click

No right click