रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्|
अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः|

दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि|
रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम्|

शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च|
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिन्डं कालायसाऽयसी|

अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले|
सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी|

क्षारः काचोऽथ चपलो रसः सूतश्च पारदे|
गवलं माहिषं शृङ्गमभ्रकं गिरिजाऽमले|

स्रोतोञ्जनं तु मौवीरं कापोताञ्जनयामुने|
तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके|

कर्परी दाविंकाक्कातोद्भवं तुत्थं रसाञ्जनम्|
रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः|

सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका|
रीतिपुष्पं पुष्पके तु पुष्पकं कुसुमाञ्जनम्|

पिञ्जरं पीतनं तालमालं च हरितालके|
गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु|

वोलगन्धरसप्राणपिण्डगोपरसाः समाः|
डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम्|

नागसीसकयोगेष्टवप्राणि त्रिषु पिञ्चटम्|
रङ्गवङ्गे अथ पिचुस् तूलोऽथ कमलोत्तरम्|

स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि|
मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि|

मधु क्षौद्रं माक्षिकाऽऽदि मधूच्छिष्टं तु सिक्थकम्|
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका|

नैपाली कुनटी गोला यवक्षारो यवाग्रजः|
पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः|

सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना|
शिग्रुजं श्वेतमारिचं मोरटं मूलमैक्षवम्|

ग्रन्थिकं पिप्पलीमूलं चटिकाशिर इत्यपि|
गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्|

त्रिकटु त्र्यूपणं व्योपं त्रिफला तु फलत्रिकम्|
 इति वैश्यवर्गः

Hits: 254
X

Right Click

No right click