अस्ति कस्मिंश्चित् प्रदेशे महान् न्यग्रोध-पादपः। तत्र वायस-दंपती प्रतिवसतः स्म। अथ तयोः प्रसव-काले वृक्ष-विवरान् निष्क्रम्य कृष्ण-सर्पः सदैव तद्-अपत्यानि भक्षयति। ततस् तौ निर्वेदाद् अन्य-वृक्ष-मूल-निवासिनं प्रिय-सुहृदं शृगालं गत्वोचतुः-भद्र! किम् एवंविधे सञ्जात आवयोः कर्तव्यं भवति। एवं तावद् दुष्टात्मा कृष्ण-सर्पो वृक्ष-विवरान् निर्गत्यावयोर् बालकान् भक्षयति। तत् कथ्यतां तद्-रक्षार्थं कश्चिद् उपायः।

यस्य क्षेत्रं नदी-तीरे भार्या च पर-संगता।
स-वायस-दंपति-कथासर्पे च ग्ढ़े वासः कथं स्यात् तस्य निर्वृतिः॥

अन्यच् च-
सर्प-युक्ते ग्ढ़े वासो मृत्युर् एव न संशयः।
यद् ग्रामांते वसेत् सर्पस् तस्य स्यात् प्राण-संशयः॥

अस्माकम् अपि तत्र-स्थितानां प्रतिदिनं प्राण-संशयः।

स आह-नात्र विषये स्वल्पो पि विषादः कार्यः। नूनं स लुब्धो नोपायम् अंतरेण वध्यः स्यात्।
उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः।
उपाय-ज्ञो ल्प-कायो पि न शूरैः परिभूयते॥

तथा च-
भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान्।
अतिलौल्याद् बकः कश्चिन् मृतः कर्कटक-ग्रहात्॥

Ref : https://sa.wikisource.org/s/12w

Hits: 589
X

Right Click

No right click